adharaM madhuraM ... madhurashtakaM - - Ashwini Bhide
- Movie: (Non-Film)
- Singer(s): Ashwini Bhide
- Music Director:
- Lyricist: Vallabhacharya
- Actors/Actresses:
- Year/Decade: 1991, 1990s
View: Plain Text, हिंदी Unicode,
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं ..
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं .
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं ..
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं ..
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं ..
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं ..
गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं ..
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं ..
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं ..
Comments/Credits:
% Series: Sukhsaagar, Date: 7 April 2004.